|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.22. अध्यायः 022
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या कृष्णम्प्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
गान्धार्युवाच। 11-22-0x(5357)(65422)
आवनत्यं भीमसेनेन भक्षयन्ति निपातितम्।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्॥ 11-22-1(65423)
तं पश्य कदनं कृत्वा शूराणां मधुसूदन।
शयानं वीरशयने रुधिरेण समुक्षितम्॥ 11-22-2(65424)
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम्॥ 11-22-3(65425)
शयानं वीरशयने शूरमाक्रन्दकारिणम्।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते॥ 11-22-4(65426)
प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम्।
प्रसुप्तमिव शार्दुलं पश्य कृष्णमनस्विनम्॥ 11-22-5(65427)
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः॥ 11-22-6(65428)
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः॥ 11-22-7(65429)
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्॥ 11-22-8(65430)
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्॥ 11-22-9(65431)
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्॥ 11-22-10(65432)
तमेताः पर्यपासन्ते वीक्षमाणा महाभुजम्।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः॥ 11-22-11(65433)
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः॥ 11-22-12(65434)
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः॥ 11-22-13(65435)
सैन्धवं मे सुता बाला प्रस्स्वलन्तीव दुःखिता।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान्॥ 11-22-14(65436)
किन्नु दुःखतरं कृष्ण परं मम भविष्यति।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः॥ 11-22-15(65437)
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः॥ 11-22-16(65438)
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्विनः।
स हत्वा विपुलाः सेनाः सर्वयं मृत्युवशं गतः॥ 11-22-17(65439)
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः॥ ॥ 11-22-18(65440)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-22-7 बार्धक्षत्रिर्जयद्रथः॥ 11-22-22 द्वाविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|